स्वस्थानी माताको व्रत बस्दै हुनुहुन्छ ? याद् गर्नुहोस् यी मन्त्र
श्री गणेशाय नमः ।। ॐ नमश्चण्डिकायै ।।
श्री सरस्वत्यै नमः ।। श्री स्वस्थानीपरमेश्वर्यै नमः ।।
??हातामा फूल लिएर भक्तिपूर्वक प्रार्थना गर्ने मन्त्र ??
यं ब्रह्मा वरूणेन्द्ररुद्रमरुतस्तुन्वन्ति दिव्यैः स्तवै–
र्वेदै: साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्याऽन्तं न विदुः सुरासुरगणाः देवाय तस्मै नमः ।।१।।
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका–
मालाऽलङ्कृतकुण्डला प्रविलसन्मुक्तवलीशोभिता ।
सर्वज्ञाननिदानपुस्तकधरा रुद्राक्ष मालाकरा
वाग्देवी वनदाम्बुजे वसतु मे त्रैलोक्यमाता चिरम् ।।२।।
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ।।३।।
नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम् ।।४।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।५।।
साष्टाङ्गं नमनं कृत्वा स्वस्थानीं परमेश्वरीम् ।
कथां सुधोपमां देव्याः श्रुत्वाऽऽभीष्टफलं लभेत् ।।
ॐ श्री स्वस्थानी परमेश्वर्यै नमो नमः।।
ॐ अष्टासु च दलेष्वेव मातृकाष्टस्थितास्तथा ।
खड्गं त्रिशूलं चोर्ध्वञ्च अर्धं च वरमुत्पलम् ।।
चतुर्भुजा त्रिनेत्रा च सर्वालङ्कारभूषिता ।
सुवर्णवद्विकासाभा स्वस्थानी परमेश्वरी ,।।
ॐ श्री स्वस्थानीपरमेश्वर्यै नमो नमः।।
श्रीस्वस्थानी परमेश्वरी भगवतीको जय ।
??अन्त्यमा भन्ने स्तोत्र??
ॐ उपनयतु मङ्गलं वः सकलजगन्मङ्गलालयश्रीमान्
दिनकर–किरण निबोधित–नव–नलिनदलनिभेक्षणः कृष्णः ।।
काले वर्षन्तु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ।।
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।
निर्धनाः सधनाः सन्तु जीवन्तु शरदां शतम् ।।
तत्रैव गङ्गा यमुना च तत्र गोदावरी सिन्धु सरस्वती च ।
तीर्थानि सर्वाणि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः ।।
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या विणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माऽच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।
कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मनावाऽऽनुसृतेस् स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पये तत् ।।
अनन्य चेतसा भक्त्या श्रुतं यच्च कथामृतम् ।
समर्पयामि तत्सर्वं स्वस्थानीं परमेश्वरीम् ।।
ॐ अष्टासु च दलेष्वेषु मातृकाष्टस्थितास्तथा ।
खड्गं त्रिशूलं चोर्ध्वञ्च वामे च वरमुत्पलम् ।।
चतुर्भुजा त्रिनेत्रा च सर्वालङ्कारभूषिता ।
सुवर्णवद्विकासाभा स्वस्थानी परमेश्वरी ।।
ॐ श्री स्वस्थानी परमेश्वर्यै नमो नमः।।
श्रीस्वस्थानी परमेश्वरी भगवतीको जय ।
??अथ विशेष अर्घदान मन्त्र??
स्वस्थानी देवी देवेशि पूजार्थं मम तारकम् ।
गृहाणार्घ्यं मया दत्तं प्रसीद परमेश्वरी ।।
व्रतमुद्दिश्य देवेशि गन्धपुष्पाक्षतैर्युतम् ।
गृहाणार्घ्यं मया दत्तं सर्वसिद्धिप्रदा भव ।।
??प्रार्थना ??
नमस्तेऽस्तु जगन्मातस् स्वस्थानी सर्वमङ्गले ।
तब प्रसादाद् देवेशि व्रतपूर्णं तवाऽऽज्ञया ।।
??हरि हर स्तुति ??
यौ तौ शंखकपालभूषितकरौ मालास्थिमालाधरौ ।
देवौ द्वारवती(श्मशाननिलयौ नागारिगोवाहनौ ।।
द्वि(त्र्यक्षौ बलि(दक्षयज्ञमथनौ मेघाद्रिराजप्रभौ ।
पापं मे हरतां सदा हरि( हरौ श्री(शैलजावल्लभौ ।।
??स्वस्थानी भगवतीको प्रार्थना ??
सुवर्णवर्णदीप्ताभां त्रिनेत्रां कमलासनाम् ।
सिंहासनसमासीनां सर्वालंकारभूषिताम् ।।
नीलोत्पलधरां वामे दक्षिणे वरदां शुभाम् ।
खड्गचर्मधरां चोर्ध्वं वामदक्षिणयोस् क्रमात् ।।
चतुर्भुजां च मां तत्र पूजयेद् वृषकेतुनम् ।
एवं ध्यात्वा महादेवीं स्वस्थानीं जगदीश्वरीम् ।।
??पुष्पाञ्जलि??
नमोऽस्तुते महादेवी स्वस्थानी परमेश्वरी ।
त्रिलोकजननि नित्ये प्राणिनां पापहारिणी १
त्रिपुरघ्न महादेव भक्तवत्सल विश्वकृत् ।
नमः करोमि देवेश ब्रह्ममाधववन्दित ।
अन्यत्र शरण नास्ति युवां वै शरणं मम ।
तस्मात् कारुण्यभावेन रक्षतां परमेश्वरौ ।।